श्रीमद्भगवद्गीता अथ अष्टादशोsध्याय: मोक्षसंन्यासयोग: śrīmadbhagavadgītā 18-78
यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर: ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥18-78॥

पदच्छेदः

यत्र योगेश्वर: कृष्ण: यत्र पार्थ: धनुर्धर: तत्र श्री: विजय: भूति: ध्रुवा नीति: मति: मम

पदपरिचयः

योगेश्वर: – अकार पु प्र एक
कृष्ण: – अकार पु प्र एक
पार्थ: – अकार पु प्र एक
धनुर्धर: – अकार पु प्र एक
श्री: – ईकार स्त्री प्र एक
विजय: – अकार पु प्र एक
भूति: – इकार स्त्री प्र एक
ध्रुवा – आकार स्त्री प्र एक
नीति: – इकार स्त्री प्र एक
मति: – इकार स्त्री प्र एक

पदार्थः

योगेश्वर: – योगानाम् ईश्वर:
कृष्ण: – केशव:
पार्थ: – अर्जुन:
धनुर्धर: – गाण्डीवधारी
श्री: – राज्यलक्ष्मी:
विजय:- जय:
भूति: – ऐश्वर्यम्
ध्रुवा – अव्यभिचारिणी
नीति: – न्याय:
मति: – मतम्

अन्वयः

यत्र योगेश्वर: कृष्ण: यत्र धनुर्धर: पार्थ: तत्र श्री: विजय: भूति: ध्रुवा नीति: (इति) मम मति: ।

सन्धिः

कृष्ण: + यत्र – विसर्गउकार:
पार्थ: + धनुर्धर: – विसर्गउकार:
श्री: विजय: – विसर्गरेफ:
विजय: +भूति: – विसर्गउकार:
भूति: + ध्रुवा – विसर्गरेफ:
नीति:+ मति: – विसर्गरेफ:
मति: + मम- विसर्गरेफ:

Sankara bashyam
यत्र यस्मिन् पक्षे योगेश्वरः सर्वयोगानाम् ईश्वरः, तत्प्रभवत्वात् सर्वयोगबीजस्य, कृष्णः, यत्र पार्थः यस्मिन् पक्षे धनुर्धरः गाण्डीवधन्वा, तत्र श्रीः तस्मिन् पाण्डवानां पक्षे श्रीः विजयः, तत्रैव भूतिः श्रियो विशेषः विस्तारः भूतिः, ध्रुवा अव्यभिचारिणी नीतिः नयः, इत्येवं मतिः मम इति ॥ ७८ ॥